|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.53. अध्यायः 053
Mahabharata - Shanti Parva - Chapter Topics
कृष्णेन भीष्मंप्रति धर्मकथनचोदना॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
जनमेजय उवाच। 12-53-0x(5461)(66838)
धर्मात्मनि महावीर्ये सत्यसन्धे जितात्मनि।
देवव्रते महाभागे शरतल्पगतेऽच्युते॥ 12-53-1(66839)
शयाने वीरशयने भीष्मे शन्तनुनन्दने।
गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपासिते॥ 12-53-2(66840)
काः कथाः समवर्तन्त तस्मिन्वीरसमागमे।
हतेषु सर्वसैन्येषु तन्मे शंस महामुने॥ 12-53-3(66841)
वैशम्पायन उवाच। 12-53-4x(5462)
शरतल्पगते भीष्मे कौरवाणां पितामहे।
आजग्मुर्ऋषयः सिद्धा नारदप्रमुखा नृप॥ 12-53-4(66842)
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः।
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा॥ 12-53-5(66843)
तेऽभिगम्य महात्मानो भरतानां पितामहम्।
अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा॥ 12-53-6(66844)
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः।
उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान्॥ 12-53-7(66845)
प्राप्तकालं समाचक्षे भीष्मोऽयमनुयुज्यताम्।
अस्तमेति हि गाङ्गेयो भानुमानिव भारत॥ 12-53-8(66846)
अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्यनुपृच्छत।
कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम्॥ 12-53-9(66847)
एष वृद्धः पराँल्लोकान्संप्राप्नोति तनुं त्यजन्।
तं शीघ्रमनुयुञ्जीध्वं संशयान्मनसि स्थितान्॥ 12-53-10(66848)
वैशम्पायन उवाच। 12-53-11x(5463)
एवमुक्ते नारदेन भीष्ममीयुर्नराधिपाः।
प्रष्टुं चाशक्रुवन्तस्ते वीक्षांचक्रुः परस्परम्॥ 12-53-11(66849)
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः।
नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम्॥ 12-53-12(66850)
प्रव्याहर यदुश्रेष्ठ त्वमग्रे मधुसूदन।
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः॥ 12-53-13(66851)
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा।
अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः॥ 12-53-14(66852)
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम।
विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव॥ 12-53-15(66853)
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ।
न ग्लायते च हृदयं न च ते व्याकुलं मनः॥ 12-53-16(66854)
भीष्म उवाच। 12-53-17x(5464)
दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा।
तव प्रसादाद्वार्ष्णेय सद्यो व्यपगतानि मे॥ 12-53-17(66855)
यच्च भूतं भविष्यच्च भवच्च परमद्युते।
तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम्॥ 12-53-18(66856)
वेदोक्ताश्चैव ये धर्मा वेदान्ताधिगताश्च ये।
तान्सर्वान्संप्रपश्यामि वरदानात्तवाच्युत॥ 12-53-19(66857)
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते।
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन॥ 12-53-20(66858)
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः।
राजधर्मांश्च सकलानवगच्छामि केशव॥ 12-53-21(66859)
यच्च यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन।
तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत्॥ 12-53-22(66860)
युवेवास्मि समावृत्तस्त्वदनुध्यानबृंहितः।
वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन॥ 12-53-23(66861)
स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम्।
किं ते विवक्षितं चात्र तदाशु वद माधव॥ 12-53-24(66862)
वासुदेव उवाच। 12-53-25x(5465)
यशसः श्रेयसश्चैव मूल मां विद्धि कौरव।
मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः॥ 12-53-25(66863)
शीतांशुश्चन्द्र इत्युक्ते लोके को विस्मयिष्यति।
तथैव यशसा पूर्णे मयि को विस्मयिष्यति॥ 12-53-26(66864)
आधेयं तु मया भूयो यशस्तव महाद्युते।
ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता॥ 12-53-27(66865)
यावद्धि पृथिवीपाल पृथ्वीयं स्थास्यति ध्रुवा।
तावत्तवाक्षया कीर्तिर्लोकाननुचरिष्यति॥ 12-53-28(66866)
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते।
वेदप्रवाद इव ते स्थास्यते वसुधातले॥ 12-53-29(66867)
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना।
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति॥ 12-53-30(66868)
एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते।
दत्ता यशो विप्रथयेत्कथं भूयस्तवेति ह॥ 12-53-31(66869)
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि।
तावत्तस्याक्षया कीर्तिर्भवतीति विनिश्चिता॥ 12-53-32(66870)
राजानो हतशिष्टास्त्वां राजन्नभित आसते।
धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत॥ 12-53-33(66871)
भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः।
कुशलो राजधर्माणां सर्वेषामपराश्च ये॥ 12-53-34(66872)
जन्मप्रभृति ते किंचिद्वॄजिनं न ददर्श ह।
ज्ञातारं सर्वधर्माणां त्वां विदुः सर्वपार्थिवाः॥ 12-53-35(66873)
तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम्।
ऋषयश्चैव देवाश्च त्वया नित्यमुपासिताः॥ 12-53-36(66874)
तस्माद्वक्तव्यमेवेदं त्वयाऽवश्यमशेषतः।
धर्मं शुश्रूषमाणेभ्यः पृष्टेन न सता पुनः॥ 12-53-37(66875)
वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः।
अप्रतिब्रुवतः कष्टो दोषो हि भविता प्रभो॥ 12-53-38(66876)
तस्मात्पुत्रैश्च पौत्रेश्च धर्मान्पृष्टान्सनातनान्।
विद्वञ्जिज्ञासमानेभ्यः प्रब्रूहि भरतर्षभ॥ ॥ 12-53-39(66877)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिपञ्चाशोऽध्यायः॥ 53॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-53-8 अनुयुज्यतां पृच्छ्यताम्॥ 12-53-32 यशः परचित्तचमात्कृतिजनको गुणौधः। कीर्तिः साधुतयाऽन्यैः कथनम्॥ 12-53-33 अनुयुयुक्षन्तः प्रष्टुमिच्छन्तः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|